"ॐ जामदग्न्याय विद्महे महावीराय | धीमहि तन्नः परशुराम: प्रचोदयात् ||"

ब्लॉग
श्रीपरशुरामसहस्रनामस्तोत्रम् साहित्य और कविता

श्रीपरशुरामसहस्रनामस्तोत्रम्

21 May 2021 Pandit Rishav Mehta Himachal Pradesh 253

श्रीपरशुरामसहस्रनामस्तोत्रम्

श्रीपरशुरामसहस्रनामस्तोत्रम् श्रीगणेशाय नमः । पुरा दाशरथी रामः कृतोद्वाहः सबान्धवः । गच्छन्नयोध्यां राजेन्द्रः पितृमातृसुहृद् वृतः ॥ १॥ ददर्श यान्तं मार्गेण क्षत्रियान्तकरं विभुम् । रामं तं भार्गवं दृष्ट्वाभितस्तुष्टाव राघवः । रामः श्रीमान्महाविष्णुरिति नाम सहस्रतः ॥ २॥ अहं त्वत्तः परं राम विचरामि स्वलीलया । इत्युक्तवन्तमभ्यर्च्य प्रणिपत्य कृताञ्जलिः ॥ ३॥ श्रीराघव उवाच - यन्नामग्रहणाज्जन्तुः प्राप्नुयात्र भवापदम् । यस्य पादार्चनात्सिद्धिः स्वेप्सितां नौमि भार्गवम् ॥ ४॥ निःस्पृहो यः सदा देवो भूम्यां वसति माधवः । आत्मबोधोदधिं स्वच्छं योगिनं नौमि भार्गवम् ॥ ५॥ यस्मादेतज्जगत्सर्वं जायते यत्र लीलया । स्थितिं प्राप्नोति देवेशं जामदग्न्यं नमाम्यहम् ॥ ६॥ यस्य भ्रू भङ्गमात्रेण ब्रह्माद्याः सकलाः सुराः । शतवारं भवन्यत्र भवन्ति न भवन्ति च ॥ ७॥ तप उग्रं चचारादौ यमुद्दिश्य च रेणुका । आद्या शक्तिर्महादेवी रामं तं प्रणमाम्यहम् ॥ ८॥ ॥ अथ विनियोगः ॥ ॐ अस्य श्रीजामदग्न्यसहस्रनामस्तोत्रमहामन्त्रस्य श्रीराम ऋषिः । जामदग्न्यः परमात्मा देवता । अनुष्टुप् छन्दः । श्रीमदविनाशरामप्रीत्यर्थं चतुर्विधपुरुषार्थसिद्ध्यर्थं जपे विनियोगः ॥ ॥ अथ करन्यासः ॥ ॐ ह्रां गोविन्दात्मने अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं महीधरात्मने तर्जनीभ्यां नमः । ॐ ह्रूं हृषीकेशात्मने मध्यमाभ्यां नमः । ॐ ह्रैं त्रिविक्रमात्मने अनामिकाभ्यां नमः । ॐ ह्रौं विष्णवात्मने कनिष्ठिकाभ्यां नमः । ॐ ह्रः माधवात्मने करतलकरपृष्ठाभ्यां नमः ॥ ॥ अथ हृदयन्यासः ॥ ॐ ह्रां गोविन्दात्मने हृदयाय नमः । ॐ ह्रीं महीधरात्मने शिरसे स्वाहा । ॐ ह्रूं हृषीकेशात्मने शिखायै वषट् । ॐ ह्रैं त्रिविक्रमात्मने कवचाय हुम् । ॐ ह्रौं विष्णवात्मने नेत्रत्रयाय वौषट् । ॐ ह्रः माधवात्मने अस्त्राय फट् । ॥ अथ ध्यानम् ॥ शुद्धजाम्बूनदनिभं ब्रह्मविष्णुशिवात्मकम् । सर्वाभरणसंयुक्तं कृष्णाजिनधरं विभुम् ॥ ९॥ बाणचापौ च परशुमभयं च चतुर्भुजैः । प्रकोष्ठशोभि रुद्राक्षैर्दधानं भृगुनन्दनम् ॥ १०॥ हेमयज्ञोपवीतं च स्निग्धस्मितमुखाम्बुजम् । दर्भाञ्चितकरं देवं क्षत्रियक्षयदीक्षितम् ॥ ११॥ श्रीवत्सवक्षसं रामं ध्यायेद्वै ब्रह्मचारिणम् । हृत्पुण्डरीकमध्यस्थं सनकाद्यैरभिष्टुतम् ॥ १२॥ सहस्रमिव सूर्याणामेकी भूय पुरः स्थितम् । तपसामिव सन्मूर्तिं भृगुवंशतपस्विनम् ॥ १३॥ चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो भस्मस्निग्धपवित्रलाञ्छनवपुर्धत्ते त्वचं रौरवीम् । मौञ्ज्या मेखलया नियन्त्रितमधोवासश्च माञ्जिष्ठकम् पाणौ कार्मुकमक्षसूत्रवलयं दण्डं परं पैप्पलम् ॥ १४॥ रेणुकाहृदयानन्दं भृगुवंशतपस्विनम् । क्षत्रियाणामन्तकं पूर्णं जामदग्न्यं नमाम्यहम् ॥ १५॥ अव्यक्तव्यक्तरूपाय निर्गुणाय गुणात्मने । समस्तजगदाधारमूर्तये ब्रह्मणे नमः ॥ १६॥ ॥ श्रीपरशुराम द्वादश नामानि ॥ हरिः परशुधारी च रामश्च भृगुनन्दनः । एकवीरात्मजोविष्णुर्जामदग्न्यः प्रतापवान् ॥ १७॥ सह्याद्रिवासी वीरश्च क्षत्रजित्पृथिवीपतिः । इति द्वादशनामानि भार्गवस्य महात्मनः । यस्त्रिकाले पठेन्नित्यं सर्वत्र विजयी भवेत् ॥ १८॥ ॥ अथ श्रीपरशुरामसहस्रनामस्तोत्रम् ॥ ॐ रामः श्रीमान्महाविष्णुर्भार्गवो जमदग्निजः । तत्त्वरूपी परं ब्रह्म शाश्वतः सर्वशक्तिधृक् ॥ १॥ वरेण्यो वरदः सर्वसिद्धिदः कञ्जलोचनः । राजेन्द्रश्च सदाचारो जामदग्न्यः परात्परः ॥ २॥ परमार्थैकनिरतो जितामित्रो जनार्दनः । ऋषि प्रवरवन्धश्च दान्तः शत्रुविनाशनः ॥ ३॥ सर्वकर्मा पवित्रश्च अदीनो दीनसाधकः । अभिवाद्यो महावीरस्तपस्वी नियमः प्रियः ॥ ४॥ स्वयम्भूः सर्वरूपश्च सर्वात्मा सर्वदृक्प्रभुः । ईशानः सर्वदेवादिर्वरीयन्सर्वगोऽच्युतः ॥ ५॥ सर्वज्ञः सर्ववेदादिः शरण्यः परमेश्वरः । ज्ञानभाव्योऽपरिच्छेद्यः शुचिर्वाग्मी प्रतापवान् ॥ ६॥ जितक्रोधो गुडाकेशो द्युतिमानरिमर्दनः । रेणुकातनयः साक्षादजितोऽव्यय एव च ॥ ७॥ विपुलांसो महोरस्कोऽतीन्द्रो वन्द्यो दयानिधिः । अनादिर्भगवानिन्द्रः सर्वलोकारिमर्दनः ॥ ८॥ सत्यः सत्यव्रतः सत्यसन्धः परमधार्मिकः । लोकात्मा लोककृल्लोकवन्द्यः सर्वमयो निधिः ॥ ९॥ वश्यो दया सुधीर्गोप्ता दक्षः सर्वैकपावनः । ब्रह्मण्यो ब्रह्मचारी च ब्रह्म ब्रह्मप्रकाशकः ॥ १०॥ सुन्दरोऽजिनवासाश्च ब्रह्मसूत्रधरः समः । सौम्यो महर्षिः शान्तश्च मौञ्जीभृद्दण्डधारकः ॥ ११॥ कोदण्डी सर्वजित्छत्रदर्पहा पुण्यवर्धनः । var सर्वजिच्छत्रुदर्पहा कविर्ब्रह्मर्षि वरदः कमण्डलुधरः कृती ॥ १२॥ महोदारोऽतुलो भाव्यो जितषड्वर्गमण्डलः । कान्तः पुण्यः सुकीर्तिश्च द्विभुजश्चादि पूरुषः ॥ १३॥ अकल्मषो दुराराध्यः सर्वावासः कृतागमः । वीर्यवान्स्मितभाषी च निवृत्तात्मा पुनर्वसुः ॥ १४॥ अध्यात्मयोगकुशलः सर्वायुधविशारदः । यज्ञस्वरूपी यज्ञेशो यज्ञपालः सनातनः ॥ १५॥ घनश्यामः स्मृतिः शूरो जरामरणवर्जितः । धीरो दान्तः सुरूपश्च सर्वतीर्थमयो विधिः ॥ १६॥ धीरोदात्तः स्वरूपश्च वर्णी वर्णाश्रमगुरुः सर्वजित्पुरुषोऽव्ययः । शिवशिक्षापरो युक्तः परमात्मा परायणः ॥ १७॥ प्रमाण रूपो दुर्ज्ञेयः पूर्णः क्रूरः क्रतुर्विभुः । आनन्दोऽथ गुणश्रेष्ठोऽनन्तदृष्टिर्गुणाकरः ॥ १८॥ धनुर्धरो धनुर्वेदः सच्चिदानन्दविग्रहः । जनेश्वरो विनीतात्मा महाकायस्तपस्विराट् ॥ १९॥ अखिलाद्यो विश्वकर्मा विनीतात्मा विशारदः । अक्षरः केशवः साक्षी मरीचिः सर्वकामदः ॥ २०॥ कल्याणः प्रकृति कल्पः सर्वेशः पुरुषोत्तमः । लोकाध्यक्षो गभीरोऽथ सर्वभक्तवरप्रदः ॥ २१॥ ज्योतिरानन्दरूपश्च वह्नीरक्षय आश्रमी । भूर्भुवःस्वस्तपोमूर्ती रविः परशुधृक् स्वराट् ॥ २२॥ बहुश्रुतः सत्यवादी भ्राजिष्णुः सहनो बलः । सुखदः कारणं भोक्ता भवबन्ध विमोक्षकृत् ॥ २३॥ संसारतारको नेता सर्वदुःखविमोक्षकृत् । देवचूडामणिः कुन्दः सुतपा ब्रह्मवर्धनः ॥ २४॥ नित्यो नियतकल्याणः शुद्धात्माथ पुरातनः । दुःस्वप्ननाशनो नीतिः किरीटी स्कन्ददर्पहृत् ॥ २५॥ अर्जुनः प्राणहा वीरः सहस्रभुजजिद्धरीः । क्षत्रियान्तकरः शूरः क्षितिभारकरान्तकृत् ॥ २६॥ परश्वधधरो धन्वी रेणुकावाक्यतत्परः । वीरहा विषमो वीरः पितृवाक्यपरायणः ॥ २७॥ मातृप्राणद ईशश्च धर्मतत्त्वविशारदः । पितृक्रोधहरः क्रोधः सप्तजिह्वसमप्रभः ॥ २८॥ स्वभावभद्रः शत्रुघ्नः स्थाणुः शम्भुश्च केशवः । स्थविष्ठः स्थविरो बालः सूक्ष्मो लक्ष्यद्युतिर्महान् ॥ २९॥ ब्रह्मचारी विनीतात्मा रुद्राक्षवलयः सुधीः । अक्षकर्णः सहस्रांशुर्दीप्तः कैवल्यतत्परः ॥ ३०॥ आदित्यः कालरुद्रश्च कालचक्रप्रवर्तकः । कवची कुण्डली खड्गी चक्री भीमपराक्रमः ॥ ३१॥ मृत्युञ्जयो वीर सिंहो जगदात्मा जगद्गुरुः । अमृत्युर्जन्मरहितः कालज्ञानी महापटुः ॥ ३२॥ निष्कलङ्को गुणग्रामोऽनिर्विण्णः स्मररूपधृक् । अनिर्वेद्यः शतावर्तो दण्डो दमयिता दमः ॥ ३३॥ प्रधानस्तारको धीमांस्तपस्वी भूतसारथिः । अहः संवत्सरो योगी संवत्सरकरो द्विजः ॥ ३४॥ शाश्वतो लोकनाथश्च शाखी दण्डी बली जटी । कालयोगी महानन्दः तिग्ममन्युः सुवर्चसः ॥ ३५॥ अमर्षणो मर्षणात्मा प्रशान्तात्मा हुताशनः । सर्ववासाः सर्वचारी सर्वाधारो विरोचनः ॥ ३६॥ हैमो हेमकरो धर्मो दुर्वासा वासवो यमः । उग्रतेजा महातेजा जयो विजयः कालजित् ॥ ३७॥ सहस्रहस्तो विजयो दुर्धरो यज्ञभागभुक् । अग्निर्ज्वाली महाज्वालस्त्वतिधूमो हुतो हविः ॥ ३८॥ स्वस्तिदः स्वस्तिभागश्च महान्भर्गः परो युवा । महान्भर्गपरोयुवा महत्पादो महाहस्तो बृहत्कायो महायशाः ॥ ३९॥ महाकटिर्महाग्रीवो महाबाहुर्महाकरः । महानासो महाकम्बुर्महामायः पयोनिधिः ॥ ४०॥ महावक्षा महौजाश्च महाकेशो महाजनः । महामूर्धा महामात्रो महाकर्णो महाहनुः ॥ ४१॥ वृक्षाकारो महाकेतुर्महादंष्ट्रो महामुखः । एकवीरो महावीरो वसुदः कालपूजितः ॥ ४२॥ महामेघनिनादी च महाघोषो महाद्युतिः । शैवः शैवागमाचारी हैहयानां कुलान्तकः ॥ ४३॥ सर्वगुह्यमयो वज्री बहुलः कर्मसाधनः । कामी कपिः कामपालः कामदेवः कृतागमः ॥ ४४॥ पञ्चविंशतितत्त्वज्ञः सर्वज्ञः सर्वगोचरः । लोकनेता महानादः कालयोगी महाबलः ॥ ४५॥ असङ्ख्येयोऽप्रमेयात्मा वीर्यकृद्वीर्यकोविदः । वेदवेद्यो वियद्गोप्ता सर्वामरमुनीश्वरः ॥ ४६॥ सुरेशः शरणं शर्म शब्दब्रह्म सतां गतिः । निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः ॥ ४७॥ शुद्धः पूतः शिवारम्भः सहस्रभुजजिद्धरिः । निरवद्यपदोपायः सिद्धिदः सिद्धिसाधनः ॥ ४८॥ चतुर्भुजो महादेवो व्यूढोरस्को जनेश्वरः । द्युमणिस्तरणिर्धन्यः कार्तवीर्य बलापहा ॥ ४९॥ लक्ष्मणाग्रजवन्द्यश्च नरो नारायणः प्रियः । एकज्योतिर्निरातङ्को मत्स्यरूपी जनप्रियः ॥ ५०॥ सुप्रीतः सुमुखः सूक्ष्मः कूर्मो वाराहकस्तथा । व्यापको नारसिंहश्च बलिजिन्मधुसूदनः ॥ ५१॥ अपराजितः सर्वसहो भूषणो भूतवाहनः । निवृत्तः संवृत्तः शिल्पी क्षुद्रहा नित्य सुन्दरः ॥ ५२॥ स्तव्यः स्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः । प्रशान्तबुद्धिरक्षुद्रः सर्वसत्त्वावलम्बनः ॥ ५३॥ परमार्थगुरुर्देवो माली संसारसारथिः । रसो रसज्ञः सारज्ञः कङ्कणीकृतवासुकिः ॥ ५४॥ कृष्णः कृष्णस्तुतो धीरो मायातीतो विमत्सरः । महेश्वरो महीभर्ता शाकल्यः शर्वरीपतिः ॥ ५५॥ तटस्थः कर्णदीक्षादः सुराध्यक्षः सुरारिहा । ध्येयोऽग्रधुर्यो धात्रीशो रुचिस्त्रिभुवनेश्वरः ॥ ५६॥ कर्माध्यक्षो निरालम्बः सर्वकाम्यः फलप्रदः । अव्यक्तलक्षणो व्यक्तो व्यक्ताव्यक्तो विशाम्पतिः ॥ ५७॥ त्रिलोकात्मा त्रिलोकेशो जगन्नाथो जनेश्वरः । ब्रह्मा हंसश्च रुद्रश्च स्रष्टा हर्ता चतुर्मुखः ॥ ५८॥ निर्मदो निरहङ्कारो भृगुवंशोद्वहः शुभः । वेधा विधाता द्रुहिणो देवज्ञो देवचिन्तनः ॥ ५९॥ कैलासशिखरावासी ब्राह्मणो ब्राह्मणप्रियः । अर्थोऽनर्थो महाकोशो ज्येष्ठः श्रेष्ठः शुभाकृतिः ॥ ६०॥ बाणारिर्दमनो यज्वा स्निग्धप्रकृतिरग्नियः । वरशीलो वरगुणः सत्यकीर्तिः कृपाकरः ॥ ६१॥ सत्त्ववान् सात्त्विको धर्मी बुद्धः कल्की सदाश्रयः । दर्पणो दर्पहा दर्पातीतो दृप्तः प्रवर्तकः ॥ ६२॥ अमृतांशोऽमृतवपुर्वाङ्मयः सदसन्मयः । निधानगर्भो भूशायी कपिलो विश्वभोजनः ॥ ६३॥ प्रभविष्णुर्ग्रसिष्णुश्च चतुर्वर्गफलप्रदः । नारसिंहो महाभीमः शरभः कलिपावनः ॥ ६४॥ उग्रः पशुपतिर्भर्गो वैद्यः केशिनिषूदनः । गोविन्दो गोपतिर्गोप्ता गोपालो गोपवल्लभः ॥ ६५॥ भूतावासो गुहावासः सत्यवासः श्रुतागमः । निष्कण्टकः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः ॥ ६६॥ लक्षणः अकम्पितो गुणग्राही सुप्रीतः प्रीतिवर्धनः । पद्मगर्भो महागर्भो वज्रगर्भो जलोद्भवः ॥ ६७॥ गभस्तिर्ब्रह्मकृद्ब्रह्म राजराजः स्वयम्भवः । स्वयम्भुवः सेनानीरग्रणी साधुर्बलस्तालीकरो महान् ॥ ६८॥ पृथिवी वायुरापश्च तेजः खं बहुलोचनः । सहस्रमूर्धा देवेन्द्रः सर्वगुह्यमयो गुरुः ॥ ६९॥ अविनाशी सुखारामस्त्रिलोकी प्राणधारकः । निद्रारूपं क्षमा तन्द्रा धृतिर्मेधा स्वधा हविः ॥ ७०॥ होता नेता शिवस्त्राता सप्तजिह्वो विशुद्धपात् । स्वाहा हव्यश्च कव्यश्च शतघ्नी शतपाशधृक् ॥ ७१॥ आरोहश्च निरोहश्च तीर्थः तीर्थकरो हरः । चराचरात्मा सूक्ष्मस्तु विवस्वान् सवितामृतम् ॥ ७२॥ तुष्टिः पुष्टिः कला काष्ठा मासः पक्षस्तु वासरः । ऋतुर्युगादिकालस्तु लिङ्गमात्माथ शाश्वतः ॥ ७३॥ चिरञ्जीवी प्रसन्नात्मा नकुलः प्राणधारणः । स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ ७४॥ मुक्तिर्लक्ष्मीस्तथा भुक्तिर्विरजा विरजाम्बरः । विश्वक्षेत्रं सदाबीजं पुण्यश्रवणकीर्तनः ॥ ७५॥ भिक्षुर्भैक्ष्यं गृहं दारा यजमानश्च याचकः । पक्षी च पक्षवाहश्च मनोवेगो निशाचरः ॥ ७६॥ गजहा दैत्यहा नाकः पुरुहूतः पुरुष्टुतः । पुरुभूतः बान्धवो बन्धुवर्गश्च पिता माता सखा सुतः ॥ ७७॥ गायत्रीवल्लभः प्रांशुर्मान्धाता भूतभावनः । सिद्धार्थकारी सर्वार्थश्छन्दो व्याकरण श्रुतिः ॥ ७८॥ स्मृतिर्गाथोपशान्तश्च पुराणः प्राणचञ्चुरः । शान्तिश्च वामनश्च जगत्कालः सुकृतश्च युगाधिपः ॥ ७९॥ उद्गीथः प्रणवो भानुः स्कन्दो वैश्रवणस्तथा । अन्तरात्मा हृषीकेशः पद्मनाभः स्तुतिप्रियः ॥ ८०॥स्कन्दो वैश्रवणस्तथा परश्वधायुधः शाखी सिंहगः सिंहवाहनः । सिंहनादः सिंहदंष्ट्रो नगो मन्दरधृक्सरः ॥ ८१॥ शरः सह्याचलनिवासी च महेन्द्रकृतसंश्रयः । मनोबुद्धिरहङ्कारः कमलानन्दवर्धनः ॥ ८२॥ सनातनतमः स्रग्वी गदी शङ्खी रथाङ्गभृत् । निरीहो निर्विकल्पश्च समर्थोऽनर्थनाशनः ॥ ८३॥ अकायो भक्तकायश्च माधवोऽथ सुरार्चितः । योद्धा जेता महावीर्यः शङ्करः सन्ततः स्तुतः ॥ ८४॥ विश्वेश्वरो विश्वमूर्तिर्विश्वारामोऽथ विश्वकृत् । आजानुबाहुः सुलभः परं ज्योतिः सनातनः ॥ ८५॥ वैकुण्ठः पुण्डरीकाक्षः सर्वभूताशयस्थितः । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ ८६॥ ऊर्ध्वरेताः ऊर्ध्वलिङ्गः प्रवरो वरदो वरः । उन्मत्तवेशः प्रच्छन्नः सप्तद्वीपमहीप्रदः ॥ ८७॥ द्विजधर्मप्रतिष्ठाता वेदात्मा वेदकृच्छ्रयः । नित्यः सम्पूर्णकामश्च सर्वज्ञः कुशलागमः ॥ ८८॥ कृपापीयूषजलधिर्धाता कर्ता परात्परः । अचलो निर्मलस्तृप्तः स्वे महिम्नि प्रतिष्ठितः ॥ ८९॥ असहायः सहायश्च जगद्धेतुरकारणः । मोक्षदः कीर्तिदश्चैव प्रेरकः कीर्तिनायकः ॥ ९०॥ अधर्मशत्रुरक्षोभ्यो वामदेवो महाबलः । विश्ववीर्यो महावीर्यो श्रीनिवासः सतां गतिः ॥ ९१॥ स्वर्णवर्णो वराङ्गश्च सद्योगी च द्विजोत्तमः । नक्षत्रमाली सुरभिर्विमलो विश्वपावनः ॥ ९२॥ वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः । निदाघस्तपनो मेघो नभो योनिः पराशरः ॥ ९३॥ सुखानिलः सुनिष्पन्नः शिशिरो नरवाहनः । श्रीगर्भः कारणं जप्यो दुर्गः सत्यपराक्रमः ॥ ९४॥ आत्मभूरनिरुद्धश्च दत्तात्रेयस्त्रिविक्रमः । जमदग्निर्बलनिधिः पुलस्त्यः पुलहोऽङ्गिराः ॥ ९५॥ वर्णी वर्णगुरुश्चण्डः कल्पवृक्षः कलाधरः । महेन्द्रो दुर्भरः सिद्धो योगाचार्यो बृहस्पतिः ॥ ९६॥ निराकारो विशुद्धश्च व्याधिहर्ता निरामयः । अमोघोऽनिष्टमथनो मुकुन्दो विगतज्वरः ॥ ९७॥ स्वयंज्योतिर्गुरुतमः सुप्रसादोऽचलस्तथा । चन्द्रः सूर्यः शनिः केतुर्भूमिजः सोमनन्दनः ॥ ९८॥ भृगुर्महातपा दीर्घतपाः सिद्धो महागुरुः । मन्त्री मन्त्रयिता मन्त्रो वाग्मी वसुमनाः स्थिरः ॥ ९९॥ अद्रिरद्रिशयो शम्भुर्माङ्गल्यो मङ्गलोवृतः । जयस्तम्भो जगत्स्तम्भो बहुरूपो गुणोत्तमः ॥ १००॥ सर्वदेवमयोऽचिन्त्यो देवतात्मा विरूपधृक् । चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः ॥ १०१॥ आद्यन्तशून्यो वैकुण्ठः कर्मसाक्षी फलप्रदः । दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः ॥ १०२॥ कुबेरबन्धुः श्रीकण्ठो देवेशः सूर्यतापनः । अलुब्धः सर्वशास्त्रज्ञः शास्त्रार्थः परमःपुमान् ॥ १०३॥ अग्न्यास्यः पृथिवीपादो द्युमूर्धा दिक्ष्रुतिः परः । द्विमूर्धा सोमान्तः करणो ब्रह्ममुखः क्षत्रभुजस्तथा ॥ १०४॥ वैश्योरुः शूद्रपादस्तु नदीसर्वाङ्गसन्धिकः । जीमूतकेशोऽब्धिकुक्षिस्तु वैकुण्ठो विष्टरश्रवाः ॥ १०५॥ क्षेत्रज्ञः तमसः पारी भृगुवंशोद्भवोऽवनिः । आत्मयोनी रैणुकेयो महादेवो गुरुः सुरः ॥ १०६॥ एको नैकोऽक्षरः श्रीशः श्रीपतिर्दुःखभेषजम् । हृषीकेशोऽथ भगवान् सर्वात्मा विश्वपावनः ॥ १०७॥ विश्वकर्मापवर्गोऽथ लम्बोदरशरीरधृक् । अक्रोधोऽद्रोह मोहश्च सर्वतोऽनन्तदृक्तथा ॥ १०८॥ कैवल्यदीपः कैवल्यः साक्षी चेताः विभावसुः । एकवीरात्मजो भद्रोऽभद्रहा कैटभार्दनः ॥ १०९॥ विबुधोऽग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः । शिवध्यानरतो दिव्यो नित्ययोगी जितेन्द्रियः ॥ ११०॥ कर्मसत्यं व्रतञ्चैव भक्तानुग्रहकृद्धरिः । सर्गस्थित्यन्तकृद्रामो विद्याराशिर्गुरूत्तमः ॥ १११॥ रेणुकाप्राणलिङ्गं च भृगुवंश्यः शतक्रतुः । श्रुतिमानेकबन्धुश्च शान्तभद्रः समञ्जसः ॥ ११२॥ आध्यात्मविद्यासारश्च कालभक्षो विश‍ृङ्खलः । राजेन्द्रो भूपतिर्योगी निर्मायो निर्गुणो गुणी ॥ ११३॥ हिरण्मयः पुराणश्च बलभद्रो जगत्प्रदः । var. reversed lines वेदवेदाङ्गपारज्ञः सर्वकर्मा महेश्वरः ॥ ११४॥ ॥ फलश्रुतिः ॥ एवं नाम्नां सहस्रेण तुष्टाव भृगुवंशजम् । श्रीरामः पूजयामास प्रणिपातपुरःसरम् ॥ १॥ कोटिसूर्यप्रतीकाशो जटामुकुटभूषितः । वेदवेदाङ्गपारज्ञः स्वधर्मनिरतः कविः ॥ २॥ ज्वालामालावृतो धन्वी तुष्टः प्राह रघूत्तमम् । सर्वैश्वर्यसमायुक्तं तुभ्यं प्रणति रघूत्तमम् ॥ ३॥ प्रादां स्वतेजो निर्गतं तस्मात्प्राविशद्राघवं ततः । यदा विनिर्गतं तेजः ब्रह्माद्याः सकलाः सुराः ॥ ४॥ चेलुश्च ब्रह्मसदनं च कम्पे च वसुन्धरा । चेलुश्वच ब्रह्ममदनं ददाह भार्गवं तेजः प्रान्ते वै शतयोजनाम् ॥ ५॥ अधस्तादूर्ध्वतश्चैव हाहेति कृतवाञ्जनः । तदा प्राह महायोगी प्रहसन्निव भार्गवः ॥ ६॥ श्रीभार्गव उवाच - मा भैष्ट सैनिका रामो मत्तो भिन्नो न नामतः । रूपेणाप्रतिमेनापि महदाश्चर्यमद्भुतम् । संस्तुत्य प्रणायाद्रामः कृताञ्जलिपुटो।ब्रवीत् ॥ ७॥ श्रीराम उवाच - यद्रूपं भवतो लब्धं सर्वलोकभयङ्करम् । हितं च जगतां तेन देवानां दुःखनाशनम् ॥ ८॥ दुःख शातनम् जनार्दन करोम्यद्य विष्णो भृगुकुलोद्भवः । आशिषो देहि विप्रेन्द्र भार्गवस्तदनन्तरम् ॥ ९॥ उवाचाशीर्वचो योगी राघवाय महात्मने । परं प्रहर्षमापन्नो भगवान् राममब्रवीत् ॥ १०॥ श्रीभार्गव उवाच - धर्मे दृढत्वं युधि शत्रुघातो यशस्तथाद्यं परमं बलञ्च । योगप्रियत्वं मम सन्निकर्षः सदास्तु ते राघव राघवेशः ॥ ११॥ तुष्टोऽथ राघवः प्राह मया प्रोक्तं स्तवं तव । यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ॥ १२॥ द्विजेष्वकोपं पितृतः प्रसादं शतं समानामुपभोगयुक्तम् । कुले प्रसूतिं मातृतः प्रसादं समां प्राप्तिं प्राप्नुयाच्चापि दाक्ष्यम् । प्रीतिं चाग्र्यां बान्धवानां निरोगम् कुलं प्रसूतैः पौत्रवर्गैः समेतम् ॥ १३॥ अश्वमेध सहस्रेण फलं भवति तस्य वै । घृताद्यैः स्नापयेद्रामं स्थाल्यां वै कलशे स्थितम् ॥ १४॥ नाम्नां सहस्रेणानेन श्रद्धया भार्गवं हरिम् । सोऽपि यज्ञसहस्रस्य फलं भवति वाञ्छितम् ॥ १५॥ पूज्यो भवति रुद्रस्य मम चापि विशेषतः । तस्मान्नाम्नां सहस्रेण पूजयेद्यो जगद्गुरुम् ॥ १६॥ जपन्नाम्नां सहस्रं च स याति परमां गतिम् । श्रीः कीर्तिर्धीर्धृतिस्तुष्टिः सन्ततिश्च निरामया ॥ १७॥ अणिमा लघिमा प्राप्तिरैश्वर्याद्याश्च च सिद्धयः । सर्वभूतसुहृत्त्वं च लोके वृद्धीः परा मतिः ॥ १८॥ भवेत्प्रातश्च मध्याह्नं सायं च जपतो हरेः । नामानि ध्यायतो राम सान्निध्यं च हरेर्भवेत् ॥ १९॥ अयने विषुवे चैव जपन्त्वालिख्य पुस्तकम् । दद्याद्वै यो वैष्णवेभ्यो नष्टबन्धो न जायते ॥ २०॥ न भवेच्च कुले तस्य कश्चिल्लक्ष्मीविवर्जितः । वरदो भार्गवस्तस्य लभते च सतां गतिम् ॥ २१॥ ॥ इति श्रीअग्निपुराणे दाशरथिरामप्रोक्तं श्रीपरशुरामसहस्रनामस्तोत्रं सम्पूर्णम् ॥ श्रीभार्गवार्पणमस्तु । ॥ श्रीरस्तु ॥
साझा करें: